मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ५

संहिता

इन्द्रा॑सोमा व॒र्तय॑तं दि॒वस्पर्य॑ग्नित॒प्तेभि॑र्यु॒वमश्म॑हन्मभिः ।
तपु॑र्वधेभिर॒जरे॑भिर॒त्रिणो॒ नि पर्शा॑ने विध्यतं॒ यन्तु॑ निस्व॒रम् ॥

पदपाठः

इन्द्रा॑सोमा । व॒र्तय॑तम् । दि॒वः । परि॑ । अ॒ग्नि॒ऽत॒प्तेभिः॑ । यु॒वम् । अश्म॑हन्मऽभिः ।
तपुः॑ऽवधेभिः । अ॒जरे॑भिः । अ॒त्रिणः॑ । नि । पर्शा॑ने । वि॒ध्य॒त॒म् । यन्तु॑ । नि॒ऽस्व॒रम् ॥

सायणभाष्यम्

हे इन्द्रासोमौ दिवोन्तरिक्षात् परितः सर्वतः वर्तयतम् आयुधानि प्रेरयतम् युवं तौ युवां अग्नितप्तेभिः अग्निनासन्तप्तैः तपुर्वधेभिस्तापक- प्रहारैः अजरेभिर्जरारहितैः दृढैः अश्महन्मभिः अश्मसारभूतस्यायसोविकारैः हननसाधनैस्तैरायुधैः अत्रिणोराक्षसस्य पर्शानेपार्श्वस्थाने- निविध्यतं निहतम् ते च राक्षसाः निःस्वरं निःशब्दं यन्तु अपयन्तु निर्गच्छन्तु ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः