मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ६

संहिता

इन्द्रा॑सोमा॒ परि॑ वां भूतु वि॒श्वत॑ इ॒यं म॒तिः क॒क्ष्याश्वे॑व वा॒जिना॑ ।
यां वां॒ होत्रां॑ परिहि॒नोमि॑ मे॒धये॒मा ब्रह्मा॑णि नृ॒पती॑व जिन्वतम् ॥

पदपाठः

इन्द्रा॑सोमा । परि॑ । वा॒म् । भू॒तु॒ । वि॒श्वतः॑ । इ॒यम् । म॒तिः । क॒क्ष्या॑ । अश्वा॑ऽइव । वा॒जिना॑ ।
याम् । वा॒म् । होत्रा॑म् । प॒रि॒ऽहि॒नोमि॑ । मे॒धया॑ । इ॒मा । ब्रह्मा॑णि । नृ॒पती॑ इ॒वेति॑ नृ॒पती॑ऽइव । जि॒न्व॒त॒म् ॥

सायणभाष्यम्

हे इन्द्रासोमौ इयमस्माभिः क्रियमाणा मतिर्मननीया स्तुतिः वाजिना वाजिनौ बलवन्तौ वां युवां विश्वतः सर्वतः परिभूतु परिगृह्णातु व्याप्नोतु वा । तत्रदृष्टान्तः-कक्ष्या कक्षसंबन्धिनी रज्जुः अश्वेव यथा अश्वं परिगृह्णाति तद्वत् यां होत्रां वाचं वां युवाभ्यां मेधया परिहिनोमि प्रेरयामि सेयं मतिरिति संबन्धः । अपिच इमा इमान्यस्माभिः कृतानि ब्रह्माणि स्तोत्राणि नृपतीव यथा नृपतयोधनैः पूरयन्ति तथा जिन्वतं फलैः पूरयतम् ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः