मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ७

संहिता

प्रति॑ स्मरेथां तु॒जय॑द्भि॒रेवै॑र्ह॒तं द्रु॒हो र॒क्षसो॑ भङ्गु॒राव॑तः ।
इन्द्रा॑सोमा दु॒ष्कृते॒ मा सु॒गं भू॒द्यो नः॑ क॒दा चि॑दभि॒दास॑ति द्रु॒हा ॥

पदपाठः

प्रति॑ । स्म॒रे॒था॒म् । तु॒जय॑त्ऽभिः । एवैः॑ । ह॒तम् । द्रु॒हः । र॒क्षसः॑ । भ॒ङ्गु॒रऽव॑तः ।
इन्द्रा॑सोमा । दुः॒ऽकृते॑ । मा । सु॒ऽगम् । भू॒त् । यः । नः॒ । क॒दा । चि॒त् । अ॒भि॒ऽदास॑ति । द्रु॒हा ॥

सायणभाष्यम्

हे इन्द्रासोमौ तुजयद्भिः त्वरमाणैः एवैर्गन्तृभिरश्वैः प्रतिस्मरेथां अभिगच्छतम् उपसर्गवशेनात्र स्मरतिरर्थांतरे वर्तते यथा प्रस्मरणं प्रस्थानमिति । अभिगत्यच द्रुहोद्रोग्धॄन् भंगुरावतः भजनकर्मवतः रक्षसोराक्षसान् हतं हिंस्तम् । हे इन्द्रासोमौ दुष्कृते पापकारिणे राक्षसाय सुगं सुखं माभूत् माभवतु । द्रुहा द्रोहेण युक्तोयोनोस्मान् कदाचिदपि अभिदासति अभिहन्ति तस्मै दुष्कृतइत्यन्वयः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः