मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ८

संहिता

यो मा॒ पाके॑न॒ मन॑सा॒ चर॑न्तमभि॒चष्टे॒ अनृ॑तेभि॒र्वचो॑भिः ।
आप॑ इव का॒शिना॒ संगृ॑भीता॒ अस॑न्न॒स्त्वास॑त इन्द्र व॒क्ता ॥

पदपाठः

यः । मा॒ । पाके॑न । मन॑सा । चर॑न्तम् । अ॒भि॒ऽचष्टे॑ । अनृ॑तेभिः । वचः॑ऽभिः ।
आपः॑ऽइव । का॒शिना॑ । सम्ऽगृ॑भीताः । अस॑न् । अ॒स्तु॒ । अस॑तः । इ॒न्द्र॒ । व॒क्ता ॥

सायणभाष्यम्

पाकेन पक्वेन शुद्धेन मनसा चरन्तं वर्तमानं सत्यवादिनं योमां राक्षसः अनृतेभिरनृतैः असत्यैर्वचोभिर्वचनैः अभिचष्टे अभिशंसति मयि असत्यवचनमारोपयति हे इन्द्र काशिना मुष्टिना संगृभीताः सम्यक् गृहीताः आपइव यथा आपोविशीर्णाभवन्ति तथा असतः असत्यस्य वक्ता सराक्षसः असन्नस्तु अविद्यमानोभवतु नश्यत्वित्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः