मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ९

संहिता

ये पा॑कशं॒सं वि॒हर॑न्त॒ एवै॒र्ये वा॑ भ॒द्रं दू॒षय॑न्ति स्व॒धाभि॑ः ।
अह॑ये वा॒ तान्प्र॒ददा॑तु॒ सोम॒ आ वा॑ दधातु॒ निरृ॑तेरु॒पस्थे॑ ॥

पदपाठः

ये । पा॒क॒ऽशं॒सम् । वि॒ऽहर॑न्ते । एवैः॑ । ये । वा॒ । भ॒द्रम् । दू॒षय॑न्ति । स्व॒धाऽभिः॑ ।
अह॑ये । वा॒ । तान् । प्र॒ऽददा॑तु । सोमः॑ । आ । वा॒ । द॒धा॒तु॒ । निःऽऋ॑तेः । उ॒पऽस्थे॑ ॥

सायणभाष्यम्

ये राक्षसाः पाकशंसं परिपक्ववचनं सत्यभाषिणं मां एवैः एतव्यैः प्राप्तव्यैः आत्मीयैः कामैर्हेतुभूतैः विहरन्ते विशेषेण हरन्ति उपक्षपयन्ति यथा कामं परिवदन्तीत्यर्थः येवा स्वधाभिर्बलैर्युक्ताः भद्रं कल्याणवर्तनं मां दूषयन्ति दुष्टं कुर्वन्ति तान्सर्वान्सोमः अहये वा सर्पाय वा प्रददातु । निरृतेः पापदेवतायाः उपस्थे उत्सङ्गे वा आदधातु प्रक्षिपतु ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः