मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १०

संहिता

यो नो॒ रसं॒ दिप्स॑ति पि॒त्वो अ॑ग्ने॒ यो अश्वा॑नां॒ यो गवां॒ यस्त॒नूना॑म् ।
रि॒पुः स्ते॒नः स्ते॑य॒कृद्द॒भ्रमे॑तु॒ नि ष ही॑यतां त॒न्वा॒३॒॑ तना॑ च ॥

पदपाठः

यः । नः॒ । रस॑म् । दिप्स॑ति । पि॒त्वः । अ॒ग्ने॒ । यः । अश्वा॑नाम् । यः । गवा॑म् । यः । त॒नूना॑म् ।
रि॒पुः । स्ते॒नः । स्ते॒य॒ऽकृत् । द॒भ्रम् । ए॒तु॒ । नि । सः । ही॒य॒ता॒म् । त॒न्वा॑ । तना॑ । च॒ ॥

सायणभाष्यम्

हे अग्ने योराक्षसः नोस्माकं पित्वोन्नस्य रसं सारं दिप्सति जिघांसति यश्च अश्वानामस्मदीयानां रसं दिप्सति यश्च गवां रसं दिप्सति यश्च तनूनामस्मदीयानां शरीराणां रसं दिप्सति रिपुर्बाधकः स्तेनश्चौरः स्तेयकृत् धनस्यापहर्ता ससर्वोजनः दभ्रं हिंसां एतु प्राप्नोतु अपिच सबाधकः तन्वा स्वकीयेन शरीरेण तना च तनयेन च निहीयतां निहीनोभवतु ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः