मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् ११

संहिता

प॒रः सो अ॑स्तु त॒न्वा॒३॒॑ तना॑ च ति॒स्रः पृ॑थि॒वीर॒धो अ॑स्तु॒ विश्वा॑ः ।
प्रति॑ शुष्यतु॒ यशो॑ अस्य देवा॒ यो नो॒ दिवा॒ दिप्स॑ति॒ यश्च॒ नक्त॑म् ॥

पदपाठः

प॒रः । सः । अ॒स्तु॒ । त॒न्वा॑ । तना॑ । च॒ । ति॒स्रः । पृ॒थि॒वीः । अ॒धः । अ॒स्तु॒ । विश्वाः॑ ।
प्रति॑ । शु॒ष्य॒तु॒ । यशः॑ । अ॒स्य॒ । दे॒वाः॒ । यः । नः॒ । दिवा॑ । दिप्स॑ति । यः । च॒ । नक्त॑म् ॥

सायणभाष्यम्

सराक्षसः तन्वा तनाच व्यत्ययेन तृतीया तन्वाः शरीरस्य तनयस्य च परःपरस्तात् अस्तु वर्तमानोभवतु उभाभ्यां वियुक्तोभवत्वित्यर्थः । विश्वा व्याप्तास्तिस्रः पृथिवीः त्रीन् लोकान् अधःअधोऽस्तु अधस्तात् भवतु लोकत्रयादपि प्रच्युतोभवत्वित्यर्थः । हे देवाः अस्य शत्रोः यशोन्नं कीर्तिर्वा प्रतिशुष्यतु योराक्षसोनोस्मान् दिवा अहनि दिप्सति जिघांसति यश्च नक्तं रात्रौ जिघांसति अस्योभयविधस्य यशः प्रतिशुष्यत्विति संबन्धः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः