मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १४

संहिता

यदि॑ वा॒हमनृ॑तदेव॒ आस॒ मोघं॑ वा दे॒वाँ अ॑प्यू॒हे अ॑ग्ने ।
किम॒स्मभ्यं॑ जातवेदो हृणीषे द्रोघ॒वाच॑स्ते निरृ॒थं स॑चन्ताम् ॥

पदपाठः

यदि॑ । वा॒ । अ॒हम् । अनृ॑तऽदेवः । आस॑ । मोघ॑म् । वा॒ । दे॒वान् । अ॒पि॒ऽऊ॒हे । अ॒ग्ने॒ ।
किम् । अ॒स्मभ्य॑म् । जा॒त॒ऽवे॒दः॒ । हृ॒णी॒षे॒ । द्रो॒घ॒ऽवाचः॑ । ते॒ । निः॒ऽऋ॒थम् । स॒च॒न्ता॒म् ॥

सायणभाष्यम्

यदिवा अहं अनृतदेवः अनृताअसत्यभूताः देवायस्य तादृशोयद्यहं आस अस्मि अथवा मोघं वा निष्फलं वा देवानप्यूहे उपगच्छामि अहं यदि उक्तरूपोस्मि हे अग्ने तर्हि मां बाधस्व नह्यहं तथाविधोस्मि एवंसति हे जातवेदः जातानां वेदितरग्ने अस्मभ्यं किंकारणं त्दृणीषे क्रुध्यसि तव क्रोधोस्मासु न जायतां इत्यर्थः । द्रोघवाचः अनृतवाचोराक्षसास्ते तव निरृथं निःपूर्वोर्तिंर्हिसायां वर्तते निःशेषेण अर्तिंहिंसां सचन्तां सेवन्ताम् ॥ १४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः