मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १५

संहिता

अ॒द्या मु॑रीय॒ यदि॑ यातु॒धानो॒ अस्मि॒ यदि॒ वायु॑स्त॒तप॒ पूरु॑षस्य ।
अधा॒ स वी॒रैर्द॒शभि॒र्वि यू॑या॒ यो मा॒ मोघं॒ यातु॑धा॒नेत्याह॑ ॥

पदपाठः

अ॒द्य । मु॒री॒य॒ । यदि॑ । या॒तु॒ऽधानः॑ । अस्मि॑ । यदि॑ । वा॒ । आयुः॑ । त॒तप॑ । पुरु॑षस्य ।
अध॑ । सः । वी॒रैः । द॒शऽभिः॑ । वि । यू॒याः॒ । यः । मा॒ । मोघ॑म् । यातु॑ऽधान । इति॑ । आह॑ ॥

सायणभाष्यम्

इयमपि शपथरूपैव यद्यहं वसिष्ठोयातुधानोराक्षसोस्मि अद्यास्मिन्नेव दिने मुरीय म्रिये अपि वा पुरुषस्य मनुष्यस्य आयुजींवितं यद्यहं राक्षसोभूत्वा ततप हिंसितवानस्मि तर्ह्यप्यहमद्य म्रियेइत्यन्वयः अध अथैवं स्यात् अहं वसिष्ठस्त्वं राक्षसइति तर्हि सत्वं दाशभिर्वीरैः पुत्रैः उपलक्षणमेतत् सर्वैन्धुजनैर्वियूयाः वियुक्तोभवेः योराक्षसोमामां मोघं मृषैव हे यातुधान हेराक्षसेति संबोध्य आह ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः