मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १६

संहिता

यो माया॑तुं॒ यातु॑धा॒नेत्याह॒ यो वा॑ र॒क्षाः शुचि॑र॒स्मीत्याह॑ ।
इन्द्र॒स्तं ह॑न्तु मह॒ता व॒धेन॒ विश्व॑स्य ज॒न्तोर॑ध॒मस्प॑दीष्ट ॥

पदपाठः

यः । मा॒ । अया॑तुम् । यातु॑ऽधान । इति॑ । आह॑ । यः । वा॒ । र॒क्षाः । शुचिः॑ । अ॒स्मि॒ । इति॑ । आह॑ ।
इन्द्रः॑ । तम् । ह॒न्तु॒ । म॒ह॒ता । व॒धेन॑ । विश्व॑स्य । ज॒न्तोः । अ॒ध॒मः । प॒दी॒ष्ट॒ ॥

सायणभाष्यम्

योराक्षसः मामयातुं अराक्षसं सन्तं हे यातुधान हेराक्षसेत्याह ब्रूते योवा यश्च रक्षाः राक्षसः शुचिरस्मि शुद्धोभवामि न राक्षसोस्मीत्याह ब्रूते तमुभयविधं राक्षसं इन्द्रोमहता प्रौढेन वधेनायुधेन वज्रेण हन्तु हिनस्तु सच सर्वस्य विश्वस्य जन्तोर्जनस्य अधमोनिकृष्टः सन् पदी- ष्ट पततु ॥ १६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः