मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १७

संहिता

प्र या जिगा॑ति ख॒र्गले॑व॒ नक्त॒मप॑ द्रु॒हा त॒न्वं१॒॑ गूह॑माना ।
व॒व्राँ अ॑न॒न्ताँ अव॒ सा प॑दीष्ट॒ ग्रावा॑णो घ्नन्तु र॒क्षस॑ उप॒ब्दैः ॥

पदपाठः

प्र । या । जिगा॑ति । ख॒र्गला॑ऽइव । नक्त॑म् । अप॑ । द्रु॒हा । त॒न्व॑म् । गूह॑माना ।
व॒व्रान् । अ॒न॒न्तान् । अव॑ । सा । प॒दी॒ष्ट॒ । ग्रावा॑णः । घ्न॒न्तु॒ । र॒क्षसः॑ । उ॒प॒ब्दैः ॥

सायणभाष्यम्

या राक्षसी नक्तं रात्रौ द्रुहा द्रोहेण युक्ता खर्गलेव उलूकीव प्रजिगाति प्रगच्छति किंकुर्वती तन्वं स्वकीयं शरीरं अपगूहमाना अपवृण्वती नप्रकाशयन्ती सा राक्षसी अनन्तान् अपर्यन्तान् वव्रान्गर्तान् अवपदीष्ट अवाङ्मुखीपततु ग्रावाणः सोमाभिषवार्थः पाषाणाश्च उपब्दैः अभिषवशब्दैः रक्षसोराक्षसान् घ्नन्तु हिंसन्तु ॥ १७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः