मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १८

संहिता

वि ति॑ष्ठध्वं मरुतो वि॒क्ष्वि१॒॑च्छत॑ गृभा॒यत॑ र॒क्षस॒ः सं पि॑नष्टन ।
वयो॒ ये भू॒त्वी प॒तय॑न्ति न॒क्तभि॒र्ये वा॒ रिपो॑ दधि॒रे दे॒वे अ॑ध्व॒रे ॥

पदपाठः

वि । ति॒ष्ठ॒ध्व॒म् । म॒रु॒तः॒ । वि॒क्षु । इ॒च्छत॑ । गृ॒भा॒यत॑ । र॒क्षसः॑ । सम् । पि॒न॒ष्ट॒न॒ ।
वयः॑ । ये । भू॒त्वी । प॒तय॑न्ति । न॒क्तऽभिः॑ । ये । वा॒ । रिपः॑ । द॒धि॒रे । दे॒वे । अ॒ध्व॒रे ॥

सायणभाष्यम्

हे मरुतोयूयं विक्षु प्रजासु वितिष्ठध्वं विविधं तिष्ठत तत्र गूढान् राक्षसान् हन्तुं इच्छत अन्विच्छत तदनन्तरं रक्षसस्तान् राक्षसान् गृभायत गृभ्णीत गृहीत्वाच संपिनष्टन चूर्णयत ये राक्षसावयः पक्षिणोभूत्वी भूत्वा नक्तभिः रात्रिभिः रात्रिषु पतयन्ति आगच्छन्ति येवा येच देवे दीप्ते अध्वरे यागे रिपोहिंसादधिरे विदधिरे तान् राक्षसान् संपिनष्टनेत्यन्वयः ॥ १८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः