मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् १९

संहिता

प्र व॑र्तय दि॒वो अश्मा॑नमिन्द्र॒ सोम॑शितं मघव॒न्त्सं शि॑शाधि ।
प्राक्ता॒दपा॑क्तादध॒रादुद॑क्ताद॒भि ज॑हि र॒क्षस॒ः पर्व॑तेन ॥

पदपाठः

प्र । व॒र्त॒य॒ । दि॒वः । अश्मा॑नम् । इ॒न्द्र॒ । सोम॑ऽशितम् । म॒घ॒ऽव॒न् । सम् । सि॒शा॒धि॒ ।
प्राक्ता॑त् । अपा॑क्तात् । अ॒ध॒रात् । उद॑क्तात् । अ॒भि । ज॒हि॒ । र॒क्षसः॑ । पर्व॑तेन ॥

सायणभाष्यम्

हे इन्द्र दिवोन्तरिक्षात् अश्मानं अशनिं प्रवर्तय प्रेरय राक्षसान् हन्तुं तथा सोमशितं सोमेनतीक्ष्णीकृतं यजमानं हे मघवन् धनवन्निन्द्र संशिशाधि संस्कुरु । अपिच प्राक्तात् प्राच्याः अपाक्तात् प्रतीच्याः अधरात् अवाच्याः उदक्तात् उत्तरतः सर्वस्मादपि दिग्भागात् रक्षसोराक्षसान् पर्वतेन पर्ववता वज्रेण अभिजहि मारय ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः