मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् २०

संहिता

ए॒त उ॒ त्ये प॑तयन्ति॒ श्वया॑तव॒ इन्द्रं॑ दिप्सन्ति दि॒प्सवोऽदा॑भ्यम् ।
शिशी॑ते श॒क्रः पिशु॑नेभ्यो व॒धं नू॒नं सृ॑जद॒शनिं॑ यातु॒मद्भ्य॑ः ॥

पदपाठः

ए॒ते । ऊं॒ इति॑ । त्ये । प॒त॒य॒न्ति॒ । श्वऽया॑तवः । इन्द्र॑म् । दि॒प्स॒न्ति॒ । दि॒प्सवः॑ । अदा॑भ्यम् ।
शिशी॑ते । श॒क्रः । पिशु॑नेभ्यः । व॒धम् । नू॒नम् । सृ॒ज॒त् । अ॒शनि॑म् । या॒तु॒मत्ऽभ्यः॑ ॥

सायणभाष्यम्

त्ये ते एते राक्षसाश्वयातवः श्वभिः परिगतभूतैः हिंसन्तः श्वभिः सह यान्तोवा पतयन्ति पतन्ति येदिप्सवोजिघांसवः सन्तः अदाभ्यं अहिंस्यमिन्द्रं दिप्सन्ति जिघांसन्ति तेभ्यः पिशुनेभ्यः पिशुनान्कपटान् हन्तुं शक्रः इन्द्रोवधमायुधं अशनिरूपं शिशीते तीक्ष्णीकरोति यातुमभ्द्योराक्षसेभ्योनूनं क्षिप्रं अशनिं सृजत् विसृजतु हननार्थम् ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः