मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् २१

संहिता

इन्द्रो॑ यातू॒नाम॑भवत्पराश॒रो ह॑वि॒र्मथी॑नाम॒भ्या॒३॒॑विवा॑सताम् ।
अ॒भीदु॑ श॒क्रः प॑र॒शुर्यथा॒ वनं॒ पात्रे॑व भि॒न्दन्त्स॒त ए॑ति र॒क्षसः॑ ॥

पदपाठः

इन्द्रः॑ । या॒तू॒नाम् । अ॒भ॒व॒त् । प॒रा॒ऽश॒रः । ह॒विः॒ऽमथी॑नाम् । अ॒भि । आ॒ऽविवा॑सताम् ।
अ॒भि । इत् । ऊं॒ इति॑ । श॒क्रः । प॒र॒शुः । यथा॑ । वन॑म् । पात्रा॑ऽइव । भि॒न्दन् । स॒तः । ए॒ति॒ । र॒क्षसः॑ ॥

सायणभाष्यम्

यातूनां हिंसकानां रक्षसां अयमिन्द्रः पराशरः पराशातयिता हिंसिता भवत् कीदृशीनां हविर्मथीनां हवींषि मथताम् अभिमुखं आविवासतां आगच्छताम् अपिचायं शक्रइन्द्रः वनं वृक्षजातं परशुर्यथा छिंदन् कुठारइव पात्रेव मृन्मयानि पात्राणि भिन्दन् मुद्गरइवच सतः प्राप्तनामैतत् तदाहयास्कः-तिरः सतइतिप्राप्तस्येति । प्राप्तान् रक्षसोराक्षसान् भिन्दन् हिंसन् अभ्येभिगच्छति इदूपूरणौ ॥ २१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः