मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् २२

संहिता

उलू॑कयातुं शुशु॒लूक॑यातुं ज॒हि श्वया॑तुमु॒त कोक॑यातुम् ।
सु॒प॒र्णया॑तुमु॒त गृध्र॑यातुं दृ॒षदे॑व॒ प्र मृ॑ण॒ रक्ष॑ इन्द्र ॥

पदपाठः

उलू॑कऽयातुम् । शु॒शु॒लूक॑ऽयातुम् । ज॒हि । श्वऽया॑तुम् । उ॒त । कोक॑ऽयातुम् ।
सु॒प॒र्णऽया॑तुम् । उ॒त । गृध्र॑ऽयातुम् । दृ॒षदा॑ऽइव । प्र । मृ॒ण॒ । रक्षः॑ । इ॒न्द्र॒ ॥

सायणभाष्यम्

उलूकयातुं उलूकैः परिकरभूतैः सहयातयति हिनस्तीति याति गच्छतीतिवा उलूकयातुः यद्वा उलूकरूपी यातीत्युलूकयातुः हे इन्द्र तादृशं राक्षसं जहि विनाशय । तथाच बृहद्देवतायामुक्तम्-उलूकयातुंजत्द्येतान् नानारूपान् निशाचरान् । स्त्रीपुंरूपांश्चतिर्यञ्चोजिघांसू- निद्रमेजहीति ॥ एवमुत्तरत्रापियोज्यम् शुशुलूकयातुं उलूकाद्विविधाः बृहदुलूकाः अल्पोलूकाश्चेति तत्र उलूकयातुमिति बृहदुलूकाभिप्रायेणोक्तं शिशुरल्पउलूकः शुशुलूकः तद्रूपेण वर्तमानं राक्षसं श्वयातुं श्वरूपेण वर्तमानं राक्षसं उतापिच कोकयातुं कोकश्च- क्रवाकः तद्रूपेण वर्तमानं राक्षसं सुपर्णयातुं सुपर्णः श्येनः तदाकारं यातुधानं उतापिच गृध्रयातुं गृध्ररूपं च यातुधानं एतान् सर्वान् ना- नाकारान् हे इन्द्र जहि किंबहुना दृषदेव पाषाणेनेव वज्रेण रक्षः राक्षसमात्रं प्रमृण मारय ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः