मण्डलवर्गीकरणम्

मण्डलम् ७, सूक्तम् १०४, ऋक् २४

संहिता

इन्द्र॑ ज॒हि पुमां॑सं यातु॒धान॑मु॒त स्त्रियं॑ मा॒यया॒ शाश॑दानाम् ।
विग्री॑वासो॒ मूर॑देवा ऋदन्तु॒ मा ते दृ॑श॒न्त्सूर्य॑मु॒च्चर॑न्तम् ॥

पदपाठः

इन्द्र॑ । ज॒हि । पुमां॑सम् । या॒तु॒ऽधान॑म् । उ॒त । स्त्रिय॑म् । मा॒यया॑ । शाश॑दानाम् ।
विऽग्री॑वासः । मूर॑ऽदेवाः । ऋ॒द॒न्तु॒ । मा । ते । दृ॒श॒न् । सूर्य॑म् । उ॒त्ऽचर॑न्तम् ॥

सायणभाष्यम्

हे इन्द्र पुमांसं पुंरूपधारिणं यातुधानं राक्षसं जहि मारय । उतापिच मायया वञ्चनया शाशदानां हिंसन्तीं स्त्रियं राक्षसीं च जहि । अपिच मूरदेवाः मारणक्रीडाराक्षसाः विग्रीवासः विच्छिन्नग्रीवाः सन्तः क्रदन्तु नश्यन्तु ते तथाविधा राक्षसाः उच्चरन्तं उद्यन्तं सूर्यमादित्यं मादृशन् माद्राक्षुः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः