मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १

संहिता

मा चि॑द॒न्यद्वि शं॑सत॒ सखा॑यो॒ मा रि॑षण्यत ।
इन्द्र॒मित्स्तो॑ता॒ वृष॑णं॒ सचा॑ सु॒ते मुहु॑रु॒क्था च॑ शंसत ॥

पदपाठः

मा । चि॒त् । अ॒न्यत् । वि । शं॒स॒त॒ । सखा॑यः । मा । रि॒ष॒ण्य॒त॒ ।
इन्द्र॑म् । इत् । स्तो॒त॒ । वृष॑णम् । सचा॑ । सु॒ते । मुहुः॑ । उ॒क्था । च॒ । शं॒स॒त॒ ॥

सायणभाष्यम्

हे सखायः समानख्यानाः स्तोतारः इन्द्रस्तोत्रादन्यत्स्तोत्रं माचिद्विशंसत मैवोच्चारयत मारिषण्यत माहिंसितारोभवत अन्यदीयस्तोत्रो- च्चारणेन वृथोपक्षीणा माभवत । सुतेभिषुते सोमे वृषणं कामानां वर्षितारमिन्द्रमित् इन्द्रमेव हे प्रस्तोत्रादयः सचा सह संघीभूय स्तोत स्तुत । हे प्रशस्त्रादयः उक्थाच उक्थानि शस्त्राणि चेन्द्रविषयाणि यूयं मुहुः पुनः पुनः शंसत ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०