मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ३

संहिता

यच्चि॒द्धि त्वा॒ जना॑ इ॒मे नाना॒ हव॑न्त ऊ॒तये॑ ।
अ॒स्माकं॒ ब्रह्मे॒दमि॑न्द्र भूतु॒ तेऽहा॒ विश्वा॑ च॒ वर्ध॑नम् ॥

पदपाठः

यत् । चि॒त् । हि । त्वा॒ । जनाः॑ । इ॒मे । नाना॑ । हव॑न्ते । ऊ॒तये॑ ।
अ॒स्माक॑म् । ब्रह्म॑ । इ॒दम् । इ॒न्द्र॒ । भू॒तु॒ । ते॒ । अहा॑ । विश्वा॑ । च॒ । वर्ध॑नम् ॥

सायणभाष्यम्

इमे दृश्यमानाः सर्वेजनाः हे इन्द्र त्वां ऊतये रक्षणाय तर्पणायवा नाना पृथक् पृथक् यच्चित् यद्यपि हवन्ते स्तुवन्ति हीतिपूरणः तथापि अस्माकं इदं ब्रह्म स्तोत्रमेव हेइंद्र ते तव वर्धनं वर्धकं भूतु भवतु न केवलमिदानीमेव अपितु विश्वाहा सर्वाण्यहानि सर्वेष्वहस्सुच इदमेव स्तोत्रं त्वां वर्धयत्वित्यर्थः ॥ ३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०