मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ४

संहिता

वि त॑र्तूर्यन्ते मघवन्विप॒श्चितो॒ऽर्यो विपो॒ जना॑नाम् ।
उप॑ क्रमस्व पुरु॒रूप॒मा भ॑र॒ वाजं॒ नेदि॑ष्ठमू॒तये॑ ॥

पदपाठः

वि । त॒र्तू॒र्य॒न्ते॒ । म॒घ॒ऽव॒न् । वि॒पः॒ऽचितः॑ । अ॒र्यः । विपः॑ । जना॑नाम् ।
उप॑ । क्र॒म॒स्व॒ । पु॒रु॒ऽरूप॑म् । आ । भ॒र॒ । वाज॑म् । नेदि॑ष्ठम् । ऊ॒तये॑ ॥

सायणभाष्यम्

हे मघवन् धनवन्निन्द्र विपश्चितोविद्वांसः त्वदीयाः स्तोतारः अयः अभिगन्तारः जनानां शत्रूणां विपोवेपयितारः सन्तः वितर्तूर्यन्ते भृशं आपदोवितरन्ति अतिक्रामन्ति तादृशस्त्वं उपक्रमस्व उपगच्छस्मान् पुरुरूपं बहुरूपं नेदिष्ठं अंतिकतमं वाजमन्नं ऊतये तर्पणाय आभरास्मभ्यम् ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०