मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ५

संहिता

म॒हे च॒न त्वाम॑द्रिव॒ः परा॑ शु॒ल्काय॑ देयाम् ।
न स॒हस्रा॑य॒ नायुता॑य वज्रिवो॒ न श॒ताय॑ शतामघ ॥

पदपाठः

म॒हे । च॒न । त्वाम् । अ॒द्रि॒ऽवः॒ । परा॑ । शु॒ल्काय॑ । दे॒या॒म् ।
न । स॒हस्रा॑य । न । अ॒युता॑य । व॒ज्रि॒ऽवः॒ । न । श॒ताय॑ । श॒त॒ऽम॒घ॒ ॥

सायणभाष्यम्

हे अद्रिवोवज्रवन्निन्द्र त्वा त्वां चनेति निपातद्वयसमुदायोविभज्ययोजनीयः महेच महतेपि शुल्काय मूल्याय न परादेयां न विक्रीणानि । हे वज्रिवोवज्रहस्तेन्द्र सहस्राय सहस्रसांख्यायच धनाय न परादेयाम् । अयुताय दशसहस्रायच शुल्काय न परादेयाम् । हे शतामघ बहुधनेन्द्र शताय बहुनामैतत् अपरिमितायच धनाय न परादेयां नविक्रीणानि उक्तसंख्याद्धनादपि त्वं ममप्रियतमोसीत्यर्थः ॥ ५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १०