मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ६

संहिता

वस्याँ॑ इन्द्रासि मे पि॒तुरु॒त भ्रातु॒रभु॑ञ्जतः ।
मा॒ता च॑ मे छदयथः स॒मा व॑सो वसुत्व॒नाय॒ राध॑से ॥

पदपाठः

वस्या॑न् । इ॒न्द्र॒ । अ॒सि॒ । मे॒ । पि॒तुः । उ॒त । भ्रातुः॑ । अभु॑ञ्जतः ।
मा॒ता । च॒ । मे॒ । छ॒द॒य॒थः॒ । स॒मा । व॒सो॒ इति॑ । व॒सु॒ऽत्व॒नाय॑ । राध॑से ॥

सायणभाष्यम्

हे इन्द्र त्वं मे मदीयात्पितुजर्नकादपि वस्यान् वसीयान् वसुमत्तरोसि उतापिच अभुच्चतः अपालयतोमम भ्रातुरपि वसीयान् त्वमधि- कोसि हे वसोवासकेन्द्र मे मदीया माता च त्वञ्च समा समौ समानौ सन्तौ । पुमान् स्त्रियेति पुंसः शेषः । छदयथः अर्चतिकर्मायम् मां पूजितं कुरुथः । किमर्थं वसुत्वनाय व्यापनाय राधसे धनायच उभयोर्लाभायेत्यर्थः ॥ ६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११