मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ७

संहिता

क्वे॑यथ॒ क्वेद॑सि पुरु॒त्रा चि॒द्धि ते॒ मनः॑ ।
अल॑र्षि युध्म खजकृत्पुरंदर॒ प्र गा॑य॒त्रा अ॑गासिषुः ॥

पदपाठः

क्व॑ । इ॒य॒थ॒ । क्व॑ । इत् । अ॒सि॒ । पु॒रु॒ऽत्रा । चि॒त् । हि । ते॒ । मनः॑ ।
अल॑र्षि । यु॒ध्म॒ । ख॒ज॒ऽकृ॒त् । पु॒र॒म्ऽद॒र॒ । प्र । गा॒य॒त्राः । अ॒गा॒सि॒षुः॒ ॥

सायणभाष्यम्

हे इन्द्र क्व कुत्रदेशे इमथ गतवानसि पुरा क्वेत् कुत्रचासि भवसि इदानीं वर्तसे पुरुत्राचिद्धि बहुषु हि यजमानेषु ते त्वदीयं मनः संचरति । हे युध्म युद्धकुशल खजकृत् युद्धस्य कर्तः हे पुरन्दर आसुरीणां पुरां दारयितः हे इन्द्र अलर्षि आगच्छ गायत्राः गानकुशलाः अस्मदीयाः स्तोतारः प्रागासिषुः प्रगायन्ति स्तुवन्ति अलर्षीत्येतत् दाधर्त्यादावियर्तोर्निपात्यते ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११