मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ८

संहिता

प्रास्मै॑ गाय॒त्रम॑र्चत वा॒वातु॒र्यः पु॑रंद॒रः ।
याभि॑ः का॒ण्वस्योप॑ ब॒र्हिरा॒सदं॒ यास॑द्व॒ज्री भि॒नत्पुरः॑ ॥

पदपाठः

प्र । अ॒स्मै॒ । गा॒य॒त्रम् । अ॒र्च॒त॒ । व॒वातुः॑ । यः । पु॒र॒म्ऽद॒रः ।
याभिः॑ । का॒ण्वस्य॑ । उप॑ । ब॒र्हिः । आ॒ऽसद॑म् । यास॑त् । व॒ज्री । भि॒नत् । पुरः॑ ॥

सायणभाष्यम्

अस्माइन्द्राय गायत्रं गातव्यं साम गायत्रसंज्ञं वा प्रार्चत प्रगायत पुरन्दरः पुरंदारयिता यइन्द्रः ववातुर्वननीयः संभजनीयः यद्वा वावातुः संभक्तुः स्तोतुः यइन्द्रः पुरन्दरः शत्रुपुराणां दारयिता याभिरृग्भिः काण्वस्य कण्वपुत्रस्य मेधातिथेर्मेध्यातिथेश्च बर्हिर्यज्ञं उपासदं उपासत्तुं उपगन्तुं यासत् गच्छेत् वज्री वज्रयुक्तः सन् याभिश्चं ऋग्भिः स्तूयमानः सन् पुरः शात्रवीः भिनत् भिन्द्यात् तास्वृक्षु गायत्रं साम गायतेत्यर्थः ॥ ८ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११