मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ९

संहिता

ये ते॒ सन्ति॑ दश॒ग्विनः॑ श॒तिनो॒ ये स॑ह॒स्रिणः॑ ।
अश्वा॑सो॒ ये ते॒ वृष॑णो रघु॒द्रुव॒स्तेभि॑र्न॒स्तूय॒मा ग॑हि ॥

पदपाठः

ये । ते॒ । सन्ति॑ । द॒श॒ऽग्विनः॑ । श॒तिनः॑ । ये । स॒ह॒स्रिणः॑ ।
अश्वा॑सः । ये । ते॒ । वृष॑णः । र॒घु॒ऽद्रुवः॑ । तेभिः॑ । नः॒ । तूय॑म् । आ । ग॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र दशग्विनः दशयोजनगामिनः ये अश्वास्ते तव सन्ति विद्यन्ते येचान्ये शतिनः शतसंख्याकाः सहस्रिणः सहस्रस्ख्याकाः सन्ति ये ते त्वदीयाअश्वासः अश्वाः वृषणः सेचनसमर्थायुवानः रघुद्रुवः शीघ्रगामिनश्च तेभिस्तैः सर्वैरश्वैर्नोस्मान् तूयं क्षिप्रं आगत्द्यागच्छ ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  ११