मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ११

संहिता

यत्तु॒दत्सूर॒ एत॑शं व॒ङ्कू वात॑स्य प॒र्णिना॑ ।
वह॒त्कुत्स॑मार्जुने॒यं श॒तक्र॑तु॒ः त्सर॑द्गन्ध॒र्वमस्तृ॑तम् ॥

पदपाठः

यत् । तु॒दत् । सूरः॑ । एत॑शम् । व॒ङ्कू इति॑ । वात॑स्य । प॒र्णिना॑ ।
वह॑त् । कुत्स॑म् । आ॒र्जु॒ने॒यम् । श॒तऽक्र॑तुः । त्सर॑त् । ग॒न्ध॒र्वम् । अस्तृ॑तम् ॥

सायणभाष्यम्

सूरः सूर्यः एतशं एतत्संज्ञं राजर्षिं यद्यदा तदत् अव्यथयत् तदानीं एतशं रक्षितुं वंकूवक्रगामिनौ वातस्य वायोः सदृशौ पर्णिना पर्णिनौ पतनवन्तौ ईदृशावश्वौ शतक्रतुः बहुविधकर्मेन्द्रः आर्जुनेयं अर्जुन्याः पुत्रं कुत्समृषिं वहत् अवहत् आनयत् कुत्सेन सार्धं समानं रथमारुत्द्य एतशरक्षणायागच्छदित्यर्थः । तथाच निगमान्तरम्-प्रैतशंसूर्ये पस्पृधानं सौवश्व्येसुष्विमावदिन्द्रइति । गन्धर्वं गवां रश्मीनां धर्तारं सूर्यं अस्तृतं केनाप्यहिंसितं त्सरत् अत्सरत् छद्मगत्य अगच्छत् सूर्येण योद्धुं गतवानित्यर्थः ॥ ११ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२