मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १२

संहिता

य ऋ॒ते चि॑दभि॒श्रिषः॑ पु॒रा ज॒त्रुभ्य॑ आ॒तृदः॑ ।
संधा॑ता सं॒धिं म॒घवा॑ पुरू॒वसु॒रिष्क॑र्ता॒ विह्रु॑तं॒ पुनः॑ ॥

पदपाठः

यः । ऋ॒ते । चि॒त् । अ॒भि॒ऽश्रिषः॑ । पु॒रा । ज॒त्रुऽभ्यः॑ । आ॒ऽतृदः॑ ।
सम्ऽधा॑ता । स॒म्ऽधिम् । म॒घऽवा॑ । पु॒रु॒ऽवसुः॑ । इष्क॑र्ता । विऽह्रु॑तम् । पुन॒रिति॑ ॥

सायणभाष्यम्

यइन्द्रः अभिश्रिषः अभिश्लिषः अभिश्लेषणान् सन्धानद्रव्यान् ऋतेचित् विनापि जत्रुभ्योग्रीवाभ्यः सकाशात् आतृदः आतर्दनात् आरुधि- रनिः स्रवणात् पुरा पूर्वमेव सन्धिं संधातव्यं तं संधाता संयोजयिता भवति मघवान् धनवान् पुरुवसुः बहुधनः सइन्द्रः विह्रुतं विच्छि- न्नं तं पुनरिष्कर्ता संस्कर्ता भवति ॥ १२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२