मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १३

संहिता

मा भू॑म॒ निष्ट्या॑ इ॒वेन्द्र॒ त्वदर॑णा इव ।
वना॑नि॒ न प्र॑जहि॒तान्य॑द्रिवो दु॒रोषा॑सो अमन्महि ॥

पदपाठः

मा । भू॒म॒ । निष्ट्याः॑ऽइव । इन्द्र॑ । त्वत् । अर॑णाःऽइव ।
वना॑नि । न । प्र॒ऽज॒हि॒तानि॑ । अ॒द्रि॒ऽवः॒ । दु॒रोषा॑सः । अ॒म॒न्म॒हि॒ ॥

सायणभाष्यम्

हे इन्द्र त्वत् त्वत्तः त्वत्प्रसादात् निष्ट्याइव नीचैः भूताः हीना निष्ट्याः तइव वयं माभूम तथा अरणाइव अरमणाः दुःखिनइव वयं माभूम अपिच प्रजहितानि प्रक्षीणानि शाखादिभिर्वियुक्तानिन वनानि वृक्षजातानीव वयं पुत्रादिभिः वियुक्तामाभूम । हे अद्रिवो- वज्रवन्निन्द्र दुरोषासः ओषितुमन्यैर्दग्धुमशक्याः दुर्येषु गृहेषु निवसन्तोवा वयं अमन्महि त्वां स्तुमः ॥ १३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२