मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १५

संहिता

यदि॒ स्तोमं॒ मम॒ श्रव॑द॒स्माक॒मिन्द्र॒मिन्द॑वः ।
ति॒रः प॒वित्रं॑ ससृ॒वांस॑ आ॒शवो॒ मन्द॑न्तु तुग्र्या॒वृधः॑ ॥

पदपाठः

यदि॑ । स्तोम॑म् । मम॑ । श्रव॑त् । अ॒स्माक॑म् । इन्द्र॑म् । इन्द॑वः ।
ति॒रः । प॒वित्र॑म् । स॒सृ॒ऽवांसः॑ । आ॒शवः॑ । मन्द॑न्तु । तु॒ग्र्य॒ऽवृधः॑ ॥

सायणभाष्यम्

अयमिन्द्रोमम मदीयं स्तोत्रं यदि श्रवत् श्रृणुयात् तदानीं तमिन्द्रं अस्माकं अस्मदीया इन्दवः सोमाः मन्दन्तु मादयन्तु हर्षयन्तु । कीदृशाः सोमाः तिरः तिर्यगवस्थितं पवित्रं पवनसाधनं दशापवित्रं ससृवांसः प्राप्तवन्तः दशापवित्रेण पूताइत्यर्थः आशवः शीघ्रं मदजन- काः तुभ्यावृधः तुभ्याभिः वसतीवर्येकधनाख्याभिरद्भिर्वर्धमानाः ॥ १५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १२