मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् १९

संहिता

इन्द्रा॑य॒ सु म॒दिन्त॑मं॒ सोमं॑ सोता॒ वरे॑ण्यम् ।
श॒क्र ए॑णं पीपय॒द्विश्व॑या धि॒या हि॑न्वा॒नं न वा॑ज॒युम् ॥

पदपाठः

इन्द्रा॑य । सु । म॒दिन्ऽत॑मम् । सोम॑म् । सो॒त॒ । वरे॑ण्यम् ।
श॒क्रः । ए॒न॒म् । पी॒प॒य॒त् । विश्व॑या । धि॒या । हि॒न्वा॒नम् । न । वा॒ज॒ऽयुम् ॥

सायणभाष्यम्

हे अध्वर्यवः इन्द्रायेन्द्रार्थं मदिन्तमं मादयितृतमं वरेण्यं वरणीयं भजनीयं सोमं सु सोत सुष्ठु अभिषुणुत । कुतइत्यत आह शक्र इन्द्रः विश्वया धिया सर्वया क्रिययाग्निष्टोमादिलक्षणया हिन्वानं प्रीणयन्तं वाजयुं अन्नमात्मनइच्छन्तं एनं यजमानं नेति सम्प्रत्यर्थीयः संप्रति पीपयत् वर्धयति अतः कारणात् तस्माइन्द्राय सोमं सुनुतेत्यर्थः ॥ १९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३