मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २०

संहिता

मा त्वा॒ सोम॑स्य॒ गल्द॑या॒ सदा॒ याच॑न्न॒हं गि॒रा ।
भूर्णिं॑ मृ॒गं न सव॑नेषु चुक्रुधं॒ क ईशा॑नं॒ न या॑चिषत् ॥

पदपाठः

मा । त्वा॒ । सोम॑स्य । गल्द॑या । सदा॑ । याच॑न् । अ॒हम् । गि॒रा ।
भूर्णि॑म् । मृ॒गम् । न । सव॑नेषु । चु॒क्रु॒ध॒म् । कः । ईशा॑नम् । न । या॒चि॒ष॒त् ॥

सायणभाष्यम्

हे इन्द्र त्वां सवनेषु यज्ञेषु सोमस्य गल्दया गालनेन आस्रावणेन गिरा स्तुत्या च युक्तो हं सदा सर्वदा याचन् याचमानः सन् माचुक्रुधं माक्रोधयानि बहुशोयाच्यमाने त्वयि क्रोधोजायते तं सोमस्यगालनेन स्तुत्याचापनयामीत्यर्थः । कीदृशं त्वां भूर्णिं भर्तारं मृगंन सिंहमिव भीमम् । स्वामिनइन्द्रस्य याचने लौकिकन्यायं दर्शयति लोके कोवापुरुषः ईशानं ईश्वरं स्वामिनं न याचिषत् न याचेत सर्वएवहि याचते अतोहमपि त्वां स्वामिनं याचइति भावः ॥ २० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १३