मदे॑नेषि॒तं मद॑मु॒ग्रमु॒ग्रेण॒ शव॑सा ।
विश्वे॑षां तरु॒तारं॑ मद॒च्युतं॒ मदे॒ हि ष्मा॒ ददा॑ति नः ॥
मदे॑न । इ॒षि॒तम् । मद॑म् । उ॒ग्रम् । उ॒ग्रेण॑ । शव॑सा ।
विश्वे॑षाम् । त॒रु॒तार॑म् । म॒द॒ऽच्युत॑म् । मदे॑ । हि । स्म॒ । ददा॑ति । नः॒ ॥
मदेन मादयित्रा स्तोत्रा इषितं प्रेषितं मदं मदकरं उग्रं सोमं उद्रूर्णरसं उग्रेण उद्रूर्णेनाधिकेन शवसा बलेन युक्तइन्द्रः पिबत्वितिशेषः । पीत्वाच विश्वेषां सर्वेषा शत्रूणां तरुतारं तरीतारं जेतारं मदच्युतं मदस्य शत्रूणां गर्वस्य च्यावयितारं पुत्रं मदे सोमपानेन जनितेहर्षेसति नोस्मभ्यंददातिहिष्म ददाति खलु अतः सोमं पिबत्वित्यर्थः ॥ २१ ॥