मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २२

संहिता

शेवा॑रे॒ वार्या॑ पु॒रु दे॒वो मर्ता॑य दा॒शुषे॑ ।
स सु॑न्व॒ते च॑ स्तुव॒ते च॑ रासते वि॒श्वगू॑र्तो अरिष्टु॒तः ॥

पदपाठः

शेवा॑रे । वार्या॑ । पु॒रु । दे॒वः । मर्ता॑य । दा॒शुषे॑ ।
सः । सु॒न्व॒ते । च॒ । स्तु॒व॒ते । च॒ । रा॒स॒ते॒ । वि॒श्वऽगू॑र्तः । अ॒रि॒ऽस्तु॒तः ॥

सायणभाष्यम्

शेवारे शेवं सुखं त्स्यगमके यज्ञे दशुषे चरुपुरोडाशादीनिदत्तवते यजमानाय पुरु पुरूणि बहूनि वार्या वरणीयानि धनानि देवोदानादि- गुणयुक्तइन्द्रः रासते ददाति सएव सुन्वतेच सोमाभिषवं कुर्वते च स्तुवते च स्तोत्रं कुर्वते च धनानि रासते ददाति । कीदृशः सः विश्व- गूर्तः विश्वेषु सर्वेषु कार्येषुद्यतः स्वतः प्रवृत्तः अरिष्टुतः अरिभिः प्रेरयितृभिः प्रशस्तः ॥ २२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४