मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २३

संहिता

एन्द्र॑ याहि॒ मत्स्व॑ चि॒त्रेण॑ देव॒ राध॑सा ।
सरो॒ न प्रा॑स्यु॒दरं॒ सपी॑तिभि॒रा सोमे॑भिरु॒रु स्फि॒रम् ॥

पदपाठः

आ । इ॒न्द्र॒ । या॒हि॒ । मत्स्व॑ । चि॒त्रेण॑ । दे॒व॒ । राध॑सा ।
सरः॑ । न । प्रा॒सि॒ । उ॒दर॑म् । सपी॑तिऽभिः । आ । सोमे॑भिः । उ॒रु । स्फि॒रम् ॥

सायणभाष्यम्

हे इन्द्र आयाहि आगच्छ हे देव द्योतमान चित्रेण दर्शनीयेन राधसा धनेनसोमलक्षणेन मत्स्व माद्य सपीतिभिः मरुद्भिः सह पीयमानैः सोमेभिः सोमैः उरु विस्तीर्णं स्फिरं वृद्धं उदरं आत्मीयं जठरं सरोन सरइव आप्रासि आपूरय । प्राप् रणे आदादिकः ॥ २३ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४