मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २४

संहिता

आ त्वा॑ स॒हस्र॒मा श॒तं यु॒क्ता रथे॑ हिर॒ण्यये॑ ।
ब्र॒ह्म॒युजो॒ हर॑य इन्द्र के॒शिनो॒ वह॑न्तु॒ सोम॑पीतये ॥

पदपाठः

आ । त्वा॒ । स॒हस्र॑म् । आ । श॒तम् । यु॒क्ताः । रथे॑ । हि॒र॒ण्यये॑ ।
ब्र॒ह्म॒ऽयुजः॑ । हर॑यः । इ॒न्द्र॒ । के॒शिनः॑ । वह॑न्तु । सोम॑ऽपीतये ॥

सायणभाष्यम्

हे इन्द्र त्वा त्वां सहस्रं सहस्रसंख्याका हरयस्त्वदीयाअश्वाः आवहन्तु आनयंत्वस्मद्यज्ञं तथा शतं शतसंख्याकाश्च भवदीयाः अश्वाः त्वामावहन्तु । यद्यपि द्वावेवास्यहरी तथापि तद्विभूतयोन्येपि बहवोश्वाः सन्ति । ननु युगपदनेकैरश्वैः कथं यातुं शक्यतइत्यतआह युक्ता- इति हिरण्यये हिरण्मये स्वर्णविकारे हिरण्यशब्दाद्विकारार्थे विहितस्यमयटः ऋत्व्यवास्त्वेत्यादौ मलोपोनिपात्यते तादृशे रथे युक्ताः संबद्धाः बहूनामश्वानां शीघ्रगमनाय रथेविनियुक्तत्वात् युगपदेव सर्वैरश्वैर्गन्तुं शक्यतइतिभावः । कीदृशाहरयः ब्रह्मयुजः ब्रह्मणापरिवृ- ढेनेन्द्रेण युक्ताः यद्वा ब्रह्मणास्मदीयेनस्तोत्रेण अस्माभिर्दत्तेन हविषा वा युक्ताः केशिनः केशाः केसराः तैर्युक्ताः । किमर्थमिन्द्रस्य वहनं तत्राह सोमपीतये सोमस्य पानाय यथास्मदीयं सोमं पिबेत् अतआवहन्त्वित्यर्थः ॥ २४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४