मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २५

संहिता

आ त्वा॒ रथे॑ हिर॒ण्यये॒ हरी॑ म॒यूर॑शेप्या ।
शि॒ति॒पृ॒ष्ठा व॑हतां॒ मध्वो॒ अन्ध॑सो वि॒वक्ष॑णस्य पी॒तये॑ ॥

पदपाठः

आ । त्वा॒ । रथे॑ । हि॒र॒ण्यये॑ । हरी॒ इति॑ । म॒यूर॑ऽशेप्या ।
शि॒ति॒ऽपृ॒ष्ठा । व॒ह॒ता॒म् । मध्वः॑ । अन्ध॑सः । वि॒वक्ष॑णस्य । पी॒तये॑ ॥

सायणभाष्यम्

पूर्वं हर्योर्विभूतिरूपा अश्वाइन्द्रमावहन्त्वितिप्रार्थितम् अधुना तावेवेन्द्रमावहतामितिप्रार्थ्यते हिरण्यये हिरण्यमये रथे युक्तौ मयूरशेप्या मयूरशेपौ मयूरवर्णं शेपोययोस्तौ सुपांसुलुगिति विभक्तेर्ड्यादेशः शितिपृष्ठा श्वेतपृष्ठौ एवंभूतौ अश्वौ हे इन्द्रत्वामावहताम् । किमर्थं मध्वो- मधुरसस्य विवक्षणस्य वक्तुमिष्टस्य स्तुत्यस्य यद्वा वोढव्यस्य प्राप्तव्यस्य अन्धसोन्नस्य सोमरूपस्य पीतये पानार्थम् ॥ २५ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १४