मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २६

संहिता

पिबा॒ त्व१॒॑स्य गि॑र्वणः सु॒तस्य॑ पूर्व॒पा इ॑व ।
परि॑ष्कृतस्य र॒सिन॑ इ॒यमा॑सु॒तिश्चारु॒र्मदा॑य पत्यते ॥

पदपाठः

पिब॑ । तु । अ॒स्य । गि॒र्व॒णः॒ । सु॒तस्य॑ । पू॒र्व॒पाःऽइ॑व ।
परि॑ऽकृतस्य । र॒सिनः॑ । इ॒यम् । आ॒ऽसु॒तिः । चारुः॑ । मदा॑य । प॒त्य॒ते॒ ॥

सायणभाष्यम्

हे गिर्वणः गीर्भिर्वननीय स्तुतिभिः संभजनीयेन्द्र सुतस्याभिषुतस्य अस्यसोमस्य क्रियाग्रहणं कर्तव्यमिति कर्मणः सम्प्रदानत्वात् चतुर्थ्यर्थे षष्ठी इममभिषुतं सोमं तु क्षिप्रं पिब अत्र दृष्टान्तः-पूर्वपाइव पूर्वः सर्वेभ्योदेवेभ्यः प्रथमभावीसन् पिबतीति पूर्वपा वायुः सत्द्यैन्द्रवायवे मुख्येग्रहे सर्वेभ्योदेवेभ्यः पूर्वं पिबति तद्वत्पूर्वं पिबेत्यर्थः कीदृशस्य सोमस्य परिष्कृतस्य अभिषवादिभिः संस्कृतस्य संपर्युपेभ्यइति करोतेर्भूषणेसुट् । परिनिविभ्यइतिसुटः षत्वंरसिनोरसवतः अपिच इयमासुतिः अयमासवोमद्रकरः चारुः शोभनः सोमरसः मदाय हर्षाय हर्षजननाय पत्यते संपद्यते । पत्ऌगतौ यद्वा पत्यतिरैश्वर्यकर्मा मदाय मदस्य पत्यते ईष्टे मदोत्पादने शक्तइत्यर्थः ॥ २६ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५