मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २८

संहिता

त्वं पुरं॑ चरि॒ष्ण्वं॑ व॒धैः शुष्ण॑स्य॒ सं पि॑णक् ।
त्वं भा अनु॑ चरो॒ अध॑ द्वि॒ता यदि॑न्द्र॒ हव्यो॒ भुवः॑ ॥

पदपाठः

त्वम् । पुर॑म् । च॒रि॒ष्ण्व॑म् । व॒धैः । शुष्ण॑स्य । सम् । पि॒ण॒क् ।
त्वम् । भाः । अनु॑ । च॒रः॒ । अध॑ । द्वि॒ता । यत् । इ॒न्द्र॒ । हव्यः॑ । भुवः॑ ॥

सायणभाष्यम्

हे इन्द्र त्वं शुष्णस्य शोषकस्यासुरस्य चरिष्णवं चरणशीलं वाछन्दसीति अमिपूर्वरूपत्वस्यविकल्पितत्वाद्यणादेशः । पुरं निवासस्थानं बधैर्वज्रादिभिरायुधैः संपिणक् समचूर्णयः अभांक्षीरित्यर्थः पिनष्टेर्लङि मध्यमैकवचनेरूपमेतत् । अध अपिच भाः भासमानस्त्वं अनुचरः तं शुष्णं हन्तुं अन्वगच्छः । यद्वा अध शुष्णस्य पुरभेदनानन्तरं धाः दिप्तीस्त्वमनुचरः अन्वगच्छः प्राप्तवानित्यर्थः । हे इन्द्र त्वं यद्यदा द्विता द्विधा द्विविधैः स्तोतृभिर्यष्टृभिश्च हव्योह्वातव्योभुवः भवेः तदानीं त्वं शुष्णस्य पुरं संपिणगित्यन्वयः भवतेर्लेटिसिप्यडागमः छान्दसः शपोलुक् भूसुवोस्तिङीतिगुणप्रतिषेधादुवङ् ॥ २८ ॥ चातुर्विंशिकेहनि माध्यन्दिनेसवने ब्रह्मशस्त्रे ममत्वेति वैकल्पिकोनुरूपस्तृचः सूत्रन्तु पूर्वमुदाहृतम् ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५