मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् २९

संहिता

मम॑ त्वा॒ सूर॒ उदि॑ते॒ मम॑ म॒ध्यंदि॑ने दि॒वः ।
मम॑ प्रपि॒त्वे अ॑पिशर्व॒रे व॑स॒वा स्तोमा॑सो अवृत्सत ॥

पदपाठः

मम॑ । त्वा॒ । सूरे॑ । उत्ऽइ॑ते । मम॑ । म॒ध्यन्दि॑ने । दि॒वः ।
मम॑ । प्र॒ऽपि॒त्वे । अ॒पि॒ऽश॒र्व॒रे । व॒सो॒ इति॑ । आ । स्तोमा॑सः । अ॒वृ॒त्स॒त॒ ॥

सायणभाष्यम्

सूरे सूर्ये उदिते उदयं प्राप्ते पूर्वाह्णसमये मम स्तोमासः स्तोत्राणि हे वसो वासकेन्द्र त्वां आवृत्सत आवर्तयन्तु अस्मदभिमुखं गमयन्तु । तथा दिवोदिवसस्य मध्यन्दिने मध्याह्नेपि मदीयाः स्तोमासः स्तोमाः त्वामावर्तयन्तु । तथा प्रपित्वे प्राप्ते दिवसस्यावसाने सायाह्नेपि मदीयाः स्तोमाः त्वामावर्तयन्तु । अपिशर्वरे शर्वरीं रात्रिमपि गतः कालोपि शर्वरः शार्वरेकालेपि मदीयाः स्तोमाः त्वामावर्तयन्तु ॥ २९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५