मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ३०

संहिता

स्तु॒हि स्तु॒हीदे॒ते घा॑ ते॒ मंहि॑ष्ठासो म॒घोना॑म् ।
नि॒न्दि॒ताश्व॑ः प्रप॒थी प॑रम॒ज्या म॒घस्य॑ मेध्यातिथे ॥

पदपाठः

स्तु॒हि । स्तु॒हि । इत् । ए॒ते । घ॒ । ते॒ । मंहि॑ष्ठासः । म॒घोना॑म् ।
नि॒न्दि॒तऽअ॑श्वः । प्र॒ऽप॒थी । प॒र॒म॒ऽज्याः । म॒घस्य॑ । मे॒ध्य॒ऽअ॒ति॒थे॒ ॥

सायणभाष्यम्

आसङ्गोराजर्षिर्मेध्यातिथये बहुधनं दत्वा तमृषिं दत्तदानस्य स्वस्य स्तुतौ प्रेरयति हे मेध्यातिथे यज्ञार्हातिथे एतत्संज्ञऋषे स्तुहिस्तुहीत् पुनःपुनरस्मान्प्रशंसैव मोदस्व औदासीन्यं माकार्षीः एते व एतेखलु वयं मघोनां धनवतां मध्ये ते तुभ्यं मघस्य धनस्य मंहिष्ठासोदातृत- माः अतोस्मान् स्तुहीत्यर्थः । कासौ स्तुतिः तामाह निन्दिताश्वः यस्यवीर्येण परेषामश्वानिन्दिताः कुत्सिताभवन्ति तादृशः प्रपथीः प्रकृष्टः पन्थाः प्रपथः तद्वान् सन्मार्गवर्तीत्यर्थः परमज्याः उत्कृष्टज्यः अनेन धनुरादिकं लक्ष्यते उत्कृष्टायुधइत्यर्थः यद्वा परमानुत्कृष्टन् शत्रून् जिनाति हिनस्तीति परमज्याः ज्यावयोहानौ अस्मादातोमनिन्नितिविच् एवंभूतोहमासङ्गइति स्तुहीत्यर्थः ॥ ३० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १५