मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ३१

संहिता

आ यदश्वा॒न्वन॑न्वतः श्र॒द्धया॒हं रथे॑ रु॒हम् ।
उ॒त वा॒मस्य॒ वसु॑नश्चिकेतति॒ यो अस्ति॒ याद्व॑ः प॒शुः ॥

पदपाठः

आ । यत् । अश्वा॑न् । वन॑न्ऽवतः । श्र॒द्धया॑ । अ॒हम् । रथे॑ । रु॒हम् ।
उ॒त । वा॒मस्य॑ । वसु॑नः । चि॒के॒त॒ति॒ । यः । अस्ति॑ । याद्वः॑ । प॒शुः ॥

सायणभाष्यम्

वनन्वतोवननवतः संभक्तवतः अश्वांस्तुरगान् अहं प्रायोगिः श्रद्धया आदरातिशयेन युक्तःसन् यद्यदा हे मेध्यातिथे त्वदीयेरथे आरुहं आरोहयं रुहेरन्तर्भावितण्यर्थात् लुङि कृमृदृरुहिभ्यइति च्लेरङादेशः । तदानीं मामेवं स्तुहि । उतापिच प्रकृतस्तुत्यपेक्षएषसमुच्चयः वामस्य वननीयस्य वसुनोधनस्य पूर्ववत्कर्मणिषष्ठी ईदृशं धनं चिकेतति एषआसङ्गोदातुंजानाति याद्वः यदुवंशोद्भवः यद्वा यदवो- मनुष्याः तेषु प्रसिद्धः पशुः लुप्तमत्वर्थमेतत् पशुमान् यद्वा पशुः पश्यते सूक्ष्मस्य द्रष्टा यआसङ्गोस्ति विद्यते एषचिकेततीत्यन्वयः ॥ ३१ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६