मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् १, ऋक् ३२

संहिता

य ऋ॒ज्रा मह्यं॑ माम॒हे स॒ह त्व॒चा हि॑र॒ण्यया॑ ।
ए॒ष विश्वा॑न्य॒भ्य॑स्तु॒ सौभ॑गास॒ङ्गस्य॑ स्व॒नद्र॑थः ॥

पदपाठः

यः । ऋ॒ज्रा । मह्य॑म् । म॒म॒हे । स॒ह । त्व॒चा । हि॒र॒ण्यया॑ ।
ए॒षः । विश्वा॑नि । अ॒भि । अ॒स्तु॒ । सौभ॑गा । आ॒स॒ङ्गस्य॑ । स्व॒नत्ऽर॑थः ॥

सायणभाष्यम्

एवमेवं मां स्तुहीत्यासंगोमेध्यातिथिंब्रूते यः आसङ्गस्यात्मा ऋज्रा गमनशीलानि धनानि हिरण्यया हिरण्मय्या त्वचा चर्मणा आस्तरणेन सह सहितानि मह्यं मेध्यातिथये ममहे ददौ मंहतिर्दानकर्मा एषआसङ्गस्यात्मा स्वनद्रथः शब्दायमानरथः सन् विश्वानि व्याप्तानि सौभगानि धनानि शत्रूणां स्वभूतानि अभ्यस्तु अभिभवतु ॥ ३२ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १६