मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १

संहिता

इ॒दं व॑सो सु॒तमन्ध॒ः पिबा॒ सुपू॑र्णमु॒दर॑म् ।
अना॑भयिन्ररि॒मा ते॑ ॥

पदपाठः

इ॒दम् । व॒सो॒ इति॑ । सु॒तम् । अन्धः॑ । पिब॑ । सुऽपू॑र्णम् । उ॒दर॑म् ।
अना॑भयिन् । र॒रि॒म । ते॒ ॥

सायणभाष्यम्

हे वसो वासयितरिन्द्र इदं पुरोवर्तमानं सुतमभिषुतं अन्धोन्नं सोमलक्षणं पिब यथा उदरं त्वदीयं जठरं सुपूर्णं अतिशयेन संपूर्ण भवति तथेत्यर्थः । हे अनाभयिन् आसमन्ताद्विभेतीत्याभयी बिभेतेरौणादिकइनिः न आभयी अनाभयी तादृश हे इन्द्र ते तुभ्यं त्वदर्थं ररिम उक्तलक्षणं सोमं दद्मः रादाने छान्दसोलिट् ॥ १ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७