मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् २

संहिता

नृभि॑र्धू॒तः सु॒तो अश्नै॒रव्यो॒ वारै॒ः परि॑पूतः ।
अश्वो॒ न नि॒क्तो न॒दीषु॑ ॥

पदपाठः

नृऽभिः॑ । धू॒तः । सु॒तः । अश्नैः॑ । अव्यः॑ । वारैः॑ । परि॑ऽपूतः ।
अश्वः॑ । न । नि॒क्तः । न॒दीषु॑ ॥

सायणभाष्यम्

नृभिः अध्वरस्य नेतृभिः ऋत्विग्भिः धूतः आधूतः अदाभ्यग्रहे आधवनेन संस्कृतः अश्नैः अश्मभिर्ग्रावभिः करणभूतैः सुतः अध्वर्युभिरभि- षुतः अव्यः अवेर्मेषस्य वारैर्वालैः परिपूतः । दशापवित्रस्य नाभिं कुरुते शुल्कं वलक्ष्याः पावेत्रममोतं भवतीति । नदीषु नदनास्वप्सु अश्वोन अश्वइव निक्तः निर्णिक्तः शोधितः यथा अप्सुस्नातोश्वः अपगतमलः सन् दीप्तोभवति एवं वसतीवर्याख्याभिरद्भिः अभिषुतः सोमः दीप्तोभवतीत्यर्थः ईदृशोयः सोमः तंतेयवमित्युत्तरया संबन्धः ॥ २ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७