मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ३

संहिता

तं ते॒ यवं॒ यथा॒ गोभि॑ः स्वा॒दुम॑कर्म श्री॒णन्त॑ः ।
इन्द्र॑ त्वा॒स्मिन्त्स॑ध॒मादे॑ ॥

पदपाठः

तम् । ते॒ । यव॑म् । यथा॑ । गोभिः॑ । स्वा॒दुम् । अ॒क॒र्म॒ । श्री॒णन्तः॑ ।
इन्द्र॑ । त्वा॒ । अ॒स्मिन् । स॒ध॒ऽमादे॑ ॥

सायणभाष्यम्

तं पूर्वोक्तगुणं सोमं हे इन्द्र ते त्वदर्थं यवं यथायवमयं सवनीयपुरोडाशमिव गोभिर्गविभवैः क्षीरादिभिः श्रयणद्रव्यैः श्रीणन्तः मिश्रीकुर्वन्तः स्वादुं रसत्वेन स्वादनीयमकर्म अकार्ष्म करोतेर्लुङि मन्त्रेघसेति च्लेर्लुक् । यस्मादेवं तस्मात् हे इन्द्र त्वा त्वां तादृशं सोमं पातुं अस्मिन्वर्तमाने सधमादे सहमदने यज्ञे आह्वयामीतिशेषः ॥ ३ ॥ महाव्रतेनिष्केवल्ये गायत्रतृचाशीतौ इन्द्रइत्सोमपाइत्येतदादि सूक्तशेषः शंसनीयः अन्त्यास्तिस्रोवर्जयित्वा तत्रापि स्वादवइत्ये- तांपरित्यज्य तत्रस्थाने नत्द्य१न्यंबळाकरमित्येतामावपेत् तथैव पञ्चमारण्यके सूत्रितम्-इन्द्रइत्सोमपाएकइत्येतत्प्रभृतीनां तिस्रउत्तमा- उद्धरति तासां स्वादवःसोमाआयाहीत्येतामुद्धृत्य नत्द्य१न्यंबळाकरमित्येतां प्रत्यवदधातीति । पञ्चमेहनि मरुत्वतीये इन्द्रइदित्यनुचर- स्तृचः सूत्र्यतेहि-इन्द्रइत्सोमपाएकइति मरुत्वतीयस्य प्रतिपदनुचराविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७