मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ४

संहिता

इन्द्र॒ इत्सो॑म॒पा एक॒ इन्द्र॑ः सुत॒पा वि॒श्वायु॑ः ।
अ॒न्तर्दे॒वान्मर्त्याँ॑श्च ॥

पदपाठः

इन्द्रः॑ । इत् । सो॒म॒ऽपाः । एकः॑ । इन्द्रः॑ । सु॒त॒ऽपाः । वि॒श्वऽआ॑युः ।
अ॒न्तः । दे॒वान् । मर्त्या॑न् । च॒ ॥

सायणभाष्यम्

इन्द्रइत् इन्द्रएकएव देवान्मर्त्यान्मनुष्यांश्च अन्तर्मध्ये देवेषु मनुष्येषु च मध्ये सोमपाः कृत्स्रस्य सोमस्य पाता नान्ये । तेत्द्येकदेशभाजः अतएव सुतपाः सुतस्याभिषुतस्यास्मदीयस्य सोमस्य कार्त्स्र्येन पाता इन्द्रएकएव विश्वायुः सचेन्द्रः सर्वान्नोभवति धानाकरंभादिहवींपि सवनेष्विन्द्रायैव हूयन्ते तदभिप्रायेणेदमुच्यते अतएवंविधइन्द्रः अस्मदीयं हविः स्वीकरोत्वित्यर्थः ॥ ४ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १७