मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ६

संहिता

गोभि॒र्यदी॑म॒न्ये अ॒स्मन्मृ॒गं न व्रा मृ॒गय॑न्ते ।
अ॒भि॒त्सर॑न्ति धे॒नुभि॑ः ॥

पदपाठः

गोभिः॑ । यत् । ई॒म् । अ॒न्ये । अ॒स्मत् । मृ॒गम् । न । व्राः । मृ॒गय॑न्ते ।
अ॒भि॒ऽत्सर॑न्ति । धे॒नुऽभिः॑ ॥

सायणभाष्यम्

यत् ये अस्मत् अस्मत्तोन्ये ऋत्विग्यजमानाः ईमेनमिन्द्रं गोभिः गविभवैः क्षीरादिभिः संस्कृतैः सोमैः सहिताः सन्तोमृगयन्तेअन्विष्यंते तत्रदृष्टान्तः-व्राः वरीतारः जालादिभिरुपाथैर्निरुन्धाना व्याधाः मृगं न यथा मृगं अन्विष्यन्ति तद्वदनधिकारिणएव बलादिन्द्रस्यान्वेषणे वर्तन्तइत्यर्थः । मृगअन्वेषणे इति धातुः येच जनाः धेनुभिः धेनुरिति वाङ्गाम वाग्भिःस्तुतिभिश्च अभित्सरन्ति अभिमुखं कुत्सितं गच्छन्ति सम्यक् स्तोतुं नशक्रुवन्तीत्यर्थः त्सर छद्मगतौ तथाविधाजनायमिन्द्रं नोपलभन्तइत्यर्थः ॥ ६ ॥ दशरात्रेतृतीयेहनि मरुत्वतीयस्य त्रयइन्द्रस्येतितृचोनुचरः सूत्र्यतेहि-तन्तमिद्राधसेमहे त्रयइन्द्रस्यसोमाइति मरुत्वतीयस्य प्रति- पदनुचराविति ।

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८