मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ७

संहिता

त्रय॒ इन्द्र॑स्य॒ सोमा॑ः सु॒तासः॑ सन्तु दे॒वस्य॑ ।
स्वे क्षये॑ सुत॒पाव्न॑ः ॥

पदपाठः

त्रयः॑ । इन्द्र॑स्य । सोमाः॑ । सु॒तासः॑ । स॒न्तु॒ । दे॒वस्य॑ ।
स्वे । क्षये॑ । सु॒त॒ऽपाव्नः॑ ॥

सायणभाष्यम्

देवस्य दानादिगुणयुक्तस्येन्द्रस्य पानार्थं त्रयः सवनत्रयरूपेण त्रिधा वर्तमानाः सोमाः स्वेक्षये स्वकीये यज्ञगृहे सुतासोभीषुताः सन्तु भवन्तु सुतपाव्नः हेतुगर्भविशेषणमेतत् यस्मादयमिन्द्रः अभिषुतस्यैव सोमस्य पाता तस्मादभिषुताः सन्त्वित्यर्थः ॥ ७ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८