मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् ९

संहिता

शुचि॑रसि पुरुनि॒ःष्ठाः क्षी॒रैर्म॑ध्य॒त आशी॑र्तः ।
द॒ध्ना मन्दि॑ष्ठ॒ः शूर॑स्य ॥

पदपाठः

शुचिः॑ । अ॒सि॒ । पु॒रु॒निः॒ऽस्थाः । क्षी॒रैः । म॒ध्य॒तः । आऽशी॑र्तः ।
द॒ध्ना । मन्दि॑ष्ठः । शूर॑स्य ॥

सायणभाष्यम्

हे सोम त्वं शुचिरसि दशापवित्रेण शोधितोभवसि सत्वं पुरुनिष्ठाः पुरुषु बहुषु पात्रेषु ग्रहचमसादिषु निःशेषेणस्थाता मध्यतोमध्ये मैत्रावरुणग्रहादौ क्षीरैः पयःप्रभृतिभिः श्रयणद्रव्यैः आशीर्तः मिश्रणेन संस्कृतः तृतीयसवने दध्नाच आशीर्तः एवंभूतस्त्वं शूरस्य विक्रा- न्तस्येन्द्रस्य मन्दिष्ठः मादयितृतमोभव ॥ ९ ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८