मण्डलवर्गीकरणम्

मण्डलम् ८, सूक्तम् २, ऋक् १०

संहिता

इ॒मे त॑ इन्द्र॒ सोमा॑स्ती॒व्रा अ॒स्मे सु॒तासः॑ ।
शु॒क्रा आ॒शिरं॑ याचन्ते ॥

पदपाठः

इ॒मे । ते॒ । इ॒न्द्र॒ । सोमाः॑ । ती॒व्राः । अ॒स्मे इति॑ । सु॒तासः॑ ।
शु॒क्राः । आ॒ऽशिर॑म् । या॒च॒न्ते॒ ॥

सायणभाष्यम्

हे इन्द्र ते त्वदीया इमे सोमाः तीव्रास्तीव्रमदाः अस्मे अस्माभिरध्वर्युभिः सुतासोभिषुताः शुक्राः शुद्धाः सन्तः आशीरं क्षीरादिकं श्रयणद्रव्यं त्वां याचन्ते तान् श्रीणीहीत्युत्तरत्रान्वयः ॥ १० ॥

  • अनुवाकः 
  • अष्टकः 
  • अध्यायः 
  • वर्गः  १८